(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.134. अध्यायः 134
Mahabharata - Udyoga Parva - Chapter Topics
कुन्त्या विदुलोपाख्यानकथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

विदुलोवाच। 5-134-0x(3783)(36386)
अथैतस्यामवस्थायां पौरुषं हातुमिच्छसि।
निहीनसेवितं मार्गं गमिष्यस्यचिरादिव ॥ 5-134-1(36387)
यो हि तेजो यथाशक्ति न कर्शयति विक्रमात्।
क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः ॥ 5-134-2(36388)
अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च।
नैव संप्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम् ॥ 5-134-3(36389)
सन्ति वै सिन्धुराजस्य सन्तुष्टा न तथा जनाः।
दौर्बल्यादासते मूढा व्यसतौघपतीक्षिणः ॥ 5-134-4(36390)
सहायोपचितिं कृत्वा व्यवसाय्य ततस्ततः ।
अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम् ॥ 5-134-5(36391)
तैः कृत्वा सह संघातं गिरिदुर्गालयं चर ।
काले व्यसनमाकाङ्क्षन्नैवायमजरामरः ॥ 5-134-6(36392)
सञ्जयो नामतश्च त्वं न च पश्यामि तत्त्वयि ।
अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः ॥ 5-134-7(36393)
सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत्।
अयं प्राप्य महत्कृच्छ्रं पुनर्वृद्धिं गमिष्यति॥ 5-134-8(36394)
तस्य स्मरन्ती वचनमाशंसे विजयं तव।
तस्मात्तात ब्रवीमि त्वां वक्ष्यामि च पुनःपुनः ॥ 5-134-9(36395)
यस्य ह्यर्थाभिनिर्वृत्तौ भवन्त्याप्यायिताः परे ।
तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः ॥ 5-134-10(36396)
समृद्धिरसमृद्धिर्वा पूर्वेषां मम सञ्जय ।
एवं विद्वान्युद्धमना भव मा प्रत्युपाहरः ॥ 5-134-11(36397)
नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत्।
यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते॥ 5-134-12(36398)
पतिपुत्रवधादेतत्परमं दुःखमब्रवीत् ।
दारिद्र्यमिति यत्प्रोक्तं पर्यायमरणं हि तत् ॥ 5-134-13(36399)
अहं महाकुले जाता ह्रदाद्ध्रदमिवागता।
ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता ॥ 5-134-14(36400)
महार्हमाल्याभरणां सुमृष्टाम्बरवाससम् ।
पुरा हृष्टः सुहृद्वर्गो मामपश्यत्सुहृद्गताम् ॥ 5-134-15(36401)
यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बलाम् ।
न तदा जीवितेनार्थो भविता तव सञ्जय ॥ 5-134-16(36402)
दासकर्मकरान्भृत्यानाचार्यर्त्विक्पुरोहितान्।
अवृत्त्याऽस्मान्प्रजहतो दृष्ट्वा किं जीवितेन ते ॥ 5-134-17(36403)
यदि कृत्यं न पश्यामि तवाद्याहं यथा पुरा ।
श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे ॥ 5-134-18(36404)
नेति चेद्ब्राह्मणं ब्रूयां दीर्येत हृदयं मम।
न ह्यद न च मे भर्ता नेति ब्राह्मणमुक्तवान् ॥ 5-134-19(36405)
वयमाश्रयणीयाः स्म न श्रोतारः परस्य च।
अन्यमासाद्य जीवन्ती परित्यक्ष्यामि जीवितम् ॥ 5-134-20(36406)
अपारे भव नः पारमप्लवे भव नः प्लवः ।
कुरुष्व स्थानमस्थाने मृतान्सञ्जीवयस्व नः॥ 5-134-21(36407)
सर्वे ते शत्रवः शक्या न चेञ्जीवितुमर्हसि ।
अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे ॥ 5-134-22(36408)
निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम्।
एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम् ॥ 5-134-23(36409)
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत।
माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरोऽभवत् ॥ 5-134-24(36410)
नाम विश्राव्य वै शङ्ख्ये शत्रूनाहूय दंशितान्।
सेनाग्रं चापि विद्राव्य हत्वा वा पुरुषं वरम् ॥ 5-134-25(36411)
यदैव लभते वीरः सुयुद्धेन महद्यशः ।
तदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च ॥ 5-134-26(36412)
त्यक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः ।
अवशास्तर्पयन्ति स्म सर्वकामसमृद्धिभिः ॥ 5-134-27(36413)
राज्यं चाप्युग्रवि भ्रंशं संशयो जीवितस्य वा।
न लब्धस्य हि शत्रोर्वै शेषं कुर्वन्ति साधवः ॥ 5-134-28(36414)
स्वर्गद्वारोपमं राज्यमथवाप्यमृतोपमम् ।
रुद्धमेकायनं मत्वा पतोल्मुक इवारिषु ॥ 5-134-29(36415)
जहि शत्रून्रणे राजन्स्वधर्मनुपालय ।
मा त्वा दृशं सुकृपणं शत्रूणां भयवर्धनम् ॥ 5-134-30(36416)
अस्मदीयैश्च शोचिद्भिर्नदद्भिश्च परैर्वृतम् ।
अपि त्वां नानुपश्येयं दीनाद्दीनमिवास्थितम् ॥ 5-134-31(36417)
हृप्य सौवीरकन्याभिः श्लाघस्वार्थैर्यथा पुरा।
मा च सैन्धवकन्यानामवसन्नो वशं गमः ॥ 5-134-32(36418)
युवा रूपेण संपन्नो विद्ययाभिजनेन च ।
यत्त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः ॥ 5-134-33(36419)
अधुर्यवच्च वोढव्ये मन्ये मरणमेव तत्।
यदि त्वामनुपश्यामि परस्य प्रियवादिनम् ॥ 5-134-34(36420)
पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हृदयस्य मे।
नास्मिञ्जातु कुले जातो गच्छेद्योन्यस्य पृष्ठतः । 5-134-35(36421)
न त्वं परस्यानुचरस्तात जीवितुमर्हसि ।
अहं हि क्षत्रहृदयं वेद यत्परिशाश्वतम् ॥ 5-134-36(36422)
पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि।
शाश्वतं चाव्ययं चैव प्रजापतिविनिर्मितम् ॥ 5-134-37(36423)
यो वै कश्चिदिहाजातः क्षत्रियः क्षत्रधर्मवित् ।
भयाद्वृत्तिसमीक्षो वा न नमेदिह कस्यचित् ॥ 5-134-38(36424)
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् ।
अप्यपर्वणि भज्येत न नमेतेह कस्यचित् ॥ 5-134-39(36425)
मातङ्गो मत्त इव च परीयात्स महामनाः ।
ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च सञ्जय ॥ 5-134-40(36426)
नियच्छन्नितरान्वर्णान्विनिघ्नन्सर्वदुष्कृतः।
ससहायोऽसहायो वा यावज्जीवं तथा भवेत् ॥ ॥ 5-134-41(36427)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः ।

Mahabharata - Udyoga Parva - Chapter Footnotes
5-134-11 पूर्वेषां मम च युद्धे समृद्धिरसमृद्धिर्वाऽवश्यंभाविनीत्येव विद्वान् युद्धमना भव लाभालाभौ समौ कृत्वा युध्यस्त्वेति भावः । माप्रत्युपाहरः प्रत्युपहारं युद्धोपसंहारं माकार्षीरित्यर्थः ॥ 5-134-18 कृत्यं कर्तव्यं पराक्रमम् ॥ 5-134-20 श्रोतारः पराज्ञायाः ॥ 5-134-22 शक्याः जेतुमिति शेषः ॥ 5-134-23 निर्विण्णात्मा विरक्तचित्तः । यतो हतमना नष्टसंकल्पः । विश्रुतिं ख्यातिम् ॥ 5-134-24 ग्रहं सोमपात्रम्। प्रग्रहमिति पाठे नियमनं नियन्तृत्वमित्यर्थः ॥ 5-134-27 कापुरुषाः जनाः रणे आत्मानं देहं त्यक्त्वा रणे रक्षं शूरं समृद्धिभिस्तर्पयन्तिस्मेति संबन्धः ॥ 5-134-28 उग्रविभ्रंशं महाप्रपातम्। जीवितस्य संशयो मरणम्। लब्धस्य जितस्य। शेषं पुनः स्वल्पेन विभवेनावस्थापनम् ॥ 5-134-29 रुद्धं ग्रस्तं मत्वा एकायनं स्वर्गराज्ययोर्मध्ये एकं मार्गं पत गच्छ ॥ 5-134-30 शत्रूणां भयवर्धनं भयच्छेदनम्। अनुग्रत्वात् सुकृषणं दीनं त्वा त्वां मा दृशं माद्राक्षम् ॥ 5-134-32 हृष्य हर्षं प्राप्नुहि । सौवीरकन्याभिः स्वदारैः । माचेति । सैन्धवकन्यानां शत्रुदेशजकन्यानाम् ॥ 5-134-33 विकुर्वीत अपसरणं कुर्वीत ॥ 5-134-34 अधुर्यवत् अदान्तवृषभवत्। तत् विकारकरणम् ॥ 5-134-36 वेद वेद्मि । परिशाश्वतं सर्वथैवैकरूपम्। अक्षीणमित्यर्थः ॥ 5-134-37 अव्ययं अपक्षयहीनं क्षत्रहृदयं प्रोक्तमिति पूर्वेण संबन्धः ॥ 5-134-38 आजातः सम्यग्जातः कुले जात इत्यर्थः । य आजातः स भयात्कस्यचिन्न नमेत्। वृत्तिसमीक्षो वृत्तिं समीक्षमाणो वा न नमेत् ॥ 5-134-40 परीयात् पर्यटनं कुर्यात् ॥ 5-134-41 दुष्कृतः पापिष्टान् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.